पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ दक्षिणामूर्तिसंहिता। चतुर्दशाक्षरी विद्या ऋषिर्ब्रह्मा निगद्यते ॥२॥ गायत्रं छन्द आख्यातं देवता परमेश्वरी । आद्यन्ते बीजशक्ती तु ह्रल्लेखा कीलकं भवेत् ॥३॥ चतुष्केण च युग्मेन युग्मेन युगलेन च । युगलेन च युग्मेन न्यसेदङ्गानि देशिकः ॥ ४ ॥ जपाकुसुमसङ्काशां रक्तांशुकविराजिताम् । माणिक्यभूषणां नित्यां नानाभूषणभूषिताम् ॥ ५ ॥ पाशाङ्कुशौ कपा1लं च सुधापानविघूर्णिताम् | अभयं दधर्ती ध्यात्वा चतुर्लक्षं जपेत्सुधीः ॥६॥ दे2शांशे जुहुयाद्वह्मौ विशिष्टैस्तिलतंदुलैः । त्रिकोणं वेदपत्रं च वसुपत्रं च भूगृहम् ॥ ७ ॥ एवं मण्डलमालिख्य मध्ये देवीं समर्च्चयेत् । आदावङ्गानि सम्पूज्ज्य त्रिकोणेषु प्रपूजयेत् ॥ ८ ॥ ब्रह्माणी वैष्णवी रौद्री ततो बाह्या3स्रपूजनम् । वेदमाता च हृल्लेखा योगिनी चन्द्रशेखरा ॥ ९॥ पुरआदिक्रमेणैव वेदास्रेषु प्रपूजयेत् (१) 'कपालस्थ' इति पा०। (२) तद्दशांशेन जुहुयाद्धविषा तिलतण्डुलैः" इति पा० । (३) 'वेदास्त्रपूजनम् इति पा० ।