पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्चत्वारिंशः पटलः । नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ॥१०॥ मदद्रवा द्राविणी च क्षोभिणी वस्वरेऽर्चयेत् । मातरश्चैव सम्पूज्या भूबिम्बे लोकपालकाः ॥ ११ ॥ इति श्रीदाक्षिणामूर्तिसंहितायां महाविद्येश्वरीविधिः पश्चचत्वारिंशः पटलः ॥ ४५ ॥ अथ षट्चत्वारिंशः पटलः॥ ईश्वर उवाच- अथ दूर्ती प्रवक्ष्यामि त्रैलोक्याकर्षणक्षमाम् । भुवनेशीं समुच्चार्य शिवदूत्यै नमो लिखेत् ॥१॥ सप्तार्णा शिवदूतीयं त्रैलोक्यस्वामिनी प्रिये । ऋषी रुद्रस्तु गायत्री छन्दोऽस्या देवता शिवा ॥२॥ आद्यन्ते बीजशक्ती च मध्यं कीलकमुच्यते । विद्याभागत्रयेणैव द्विरावृत्याऽङ्गकं न्यसेत् ॥ ३ ॥ दूर्वानिभा त्रिनेत्रा च महासिंहसमासना । शङ्खारिचापवाणांश्च सृणिपाशौ वराभये ॥ ४॥ दधतीं चिन्तयेन्नित्यां सप्तलक्षं जपेत्ततः ।