पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१.०६ दक्षिणामूर्तिसंहिता। तद्दशांशेन जुहुयात्तिलैर्घृतमधुप्लुतैः ॥५॥ अष्टपत्रं लिखेत्पद्मं बहिर्भूबिम्बमालिखेत् । तत्र देवीं समभ्यर्च्य उपचारैः समर्चयेत् ॥ ६ ॥ आदावङ्गानि सम्पूज्य वसुपत्रेषु पूजयेत् । जया च विजया चैव कीर्तिः प्रीतिः प्रभा तथा ॥७॥ श्रद्धा मेधा धृतिश्चाष्टौ भूबिम्बे च दिगीश्वराः । पुनर्देवी समम्यर्च्य सुखी भूयान्नरोत्तमः ॥ ८॥ इति श्रीदक्षिणामूर्तिसंहितायां शिवदूतीनित्याविधिः षट्चत्वारिंशः पटलः ॥ ४६ ॥ अथ सप्तचत्वारिंशः पटलः । ईश्वर उवाच- अथ वक्ष्ये महेशानि त्वरितां सिद्धिदायिनीम् । तारं1 परा च कूर्च्चं च खेचच्छेक्षः समालिखेत् ॥१॥ स्त्री हूमात्मकमुच्चार्य क्षें परामस्त्रकं लिखेत् । त्वरिता रविवर्णेयं भोगमोक्षफलप्रदा ॥२॥ (१) तारं परान्ते कवचं' इति पा०॥