पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्चत्वारिंशः पटलः । ऋषिरीशो विराट् छन्दो देवतेयं च पार्वति । कवचं स्त्रीशक्तिबीजे कीलकं च प्रकीर्तितम् ॥ ३ ॥ चच्छेयुगं हृच्छिरस्तु छेक्षुयुग्मं शिखा ततः । क्षस्त्रीयुगं च कवचं स्त्रींहूमात्मयुगं तथा ॥ ४ ॥ हूंक्षां नेत्राणि विन्यस्य क्षेंफडस्त्रं प्रकीर्तितम् । श्यामाङ्गीं रक्तसत्पाणिचरणाम्बुजशोभिताम् ॥ ५ ॥ वृषलाहिसुमञ्जीरां कण्ठरत्नविभूषिताम् । स्वर्णांशुकां स्वर्णभूषां वैश्याहिद्वन्द्वमेखलाम् ॥६॥ तनुमध्यां पीनवृत्तकुचयुग्मा वराभये । दधतीं शिखिपिच्छानां वलयाङ्गदशोभिताम् ॥ ७ ॥ गुञ्जारुणां नृपाहीशकेयूरां रत्नभूषणाम् । द्विजनागस्फुरत्कर्णभूषां मत्तारुणेक्षणाम् ॥ ८ ॥ नीलकुश्चितधम्मिल्लवनपुष्पां कपालि1नीम् । कैरातीं शिखिपत्राढयनिकेतनविराजिताम् ॥ ९ ॥ स्फुरत्सिंहासनप्रौढां स्मरेद्भयविनाशिनीम् । रविलक्षं जपेन्मत्रं तद्दशांशेन होमयेत् ॥१०॥ मधुकपुष्पैर्देवेशि पुरश्वारी ततो भवेत् । अष्टपत्रं लिखेत्पद्मं बहिर्भूबिम्बमालिखेत् ॥ ११ ॥ सर्वरक्षाकरं नाम चक्रमेतदुदाहृतम् । (१) कलापिनीम्' इति पा०1