पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसहिता। तत्रावाहय महेशानीमुपचारैः समर्च्चयेत ॥ १३ ॥ आदावङ्गानि सम्पूज्य वसुपत्रे प्रपूजयेत् 1। हूंकारीं खेचरीं चण्डां छेदनीं क्षेपणीमपि ॥ १४ ॥ स्त्रियं हुंकारिणीं क्षेमकारिणीं क्रमतो यजेत् । श्रींबीजेनैव लोकानां लोकपालास्ततः परम् ॥ १५ ॥ अग्रे फटकारिणी पूज्ज्या शरासनधरा प्रिये । स्वर्णरत्नमयी वेत्रयष्टिहस्ते सुभूषिते ॥ १६ ॥ द्वारपार्श्वयुगे पूज्ज्ये विजया च तथा जया । कृष्णो बर्बरकेशश्च लकुटन विराजितः ॥ १७ ॥ किंकरः पुरतः पूज्ज्यस्तद्वहिः पूजयेत् क्रमात् । धातारं च विधातारं पुनर्द्देवीं समर्च्चयेत् ॥ १८ ॥ गन्धपुष्पादिनैवेद्यैर्महारक्षाकरीं यजेत् ॥ इति दक्षिणामूर्तिसंहितायां त्वरितानित्याविधिः सप्तचत्वारिंशः पटलः ॥ ४७ ॥ (१) बसुपत्रेषु योजयेत्' इति पा।