पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथोनपञ्चाशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि विद्यां नीलपताकिनीम् । तारह्रत्पदमाभाष्य कामेश्वरि पदं ततः॥१॥ कामाङ्कुशे पदं चोक्त्वा ततः कामपताकिके। भगवत्यथ नीलांते पताके च भगान्तिके ॥ २॥ वतिह्रन्मन्त्रमालिख्य ततोऽस्त्विति पदं लि1खेत् । परमान्ते तथा गुहये ह्रींकारात्रितयं लिखेत् ॥ ३॥ मदने मदनान्ते ऽथ देहे त्रैलोक्यमालिखेत् । परमान्ते वति तथा लेख्यं कवचास्त्राग्निवल्लभा॥४॥ षष्टया परमेशानि देवी नीलपताकिनी। कामेश्वरीव यन्त्रं तु ध्यानमस्या निगद्यते ॥ ५ ॥ रक्तां रक्तांशुकप्रौढां तारवेदविभूषिताम् | इन्द्रनीलस्फुरन्नीलपताकां कमले स्थिताम् ॥ ६ ॥ काचग्रैवेयसंलग्नसृणिं च वरदाभये । दधर्ती परमेशानीं त्रैलोक्याकर्षणक्षमाम् ॥ ७ ॥ (१) ततो स्त्विति च मे लिखेत् । इति पा० । (२) न्नारत्नविभूषिताम् । इति पा०।