पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशः पटलः। ध्यात्वा जपेच्चतुर्लक्षं दशांशेन तिलैर्हुँनेत् । एषा विद्या वरारोहे कामेशीव प्रपूजयेत् ॥८॥ इति श्रीदक्षिणामूर्तिसंहितायां नीलपताकाविधि- रेकोनपञ्चाशः पटलः ॥ ४९ ॥ अथ पञ्चाशः पटलः। ईश्वर उवाच- अथ वक्ष्ये परां विद्यां विजयां जयदां सदा । शिरश्चन्द्रखपान्ताग्निरुद्रस्वरविभूषिताम् ॥१॥ बिन्दुनादकलाक्रान्तां विजयायै नमो लिखेत् । ऋषिरस्या अहं छन्दो गायत्रं देवता स्वयम् ॥ २ ॥ बीजं हृन्मध्यबाणास्तु बीजशक्ती तु कीलकम् । षड्दीर्घस्वरसंभिन्नबीजेनैव षडङ्गकम् ॥ ३ ॥ एकवक्रां दशभुजां सर्प्पयज्ञोपवीतिनीम् । दंष्ट्राकरालवदनां नरमालाविभूषिताम्॥४॥ अस्थिचर्मावशेषां तां वह्निकूटसमप्रभाम् । व्याघ्रासनां महाप्रौढशवासनविराजिताम् ॥ ५ ॥