पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूतिसंहिता। रणे स्मरणमात्रेण भक्तेभ्यो विजयप्रदाम् । शूलं सर्पचं टङ्कासिसृणिघण्टाशनिद्वयम् ॥ ६ ॥ पाशमाग्निमभीतिं च दधतीं जयदां सदा । लक्षत्रयं जपेन्मन्त्रं तद्दशांशेन होमयेत् ॥ ७ ॥ महापद्मैस्त्रिमध्वक्तै स्ततः सिद्धा भवेदियम् । त्रिकोणं चैव षट्कोणं वसुपत्रं महीगृहम् ॥ ८ ॥ मध्ये वीजं समालिख्य त्रिकोणेषु च वीजकम् । ष1डक्षराणि षट्कोणे चतुःकोणेषु च स्वरान् ॥ ९॥ युग्मयुग्मप्रभेदेन पत्राग्रेषु ततो लिखेत् । नारसिंहं महाबीजं मातृकां वेष्टयेत्ततः॥१०॥ अत्रावाह्य महादेवीमुपचारैः समर्च्चयेत् ॥ आदै षडङ्गावरणं त्रिकोणे पूजयेत्ततः ॥ ११ ॥ ब्रह्मविष्णुमेहशांश्च षट्कोणेषु ततो यजेत् । षड्योगिनीरष्टपत्रे मातरः पूजयेत्क्रमात् ॥ १२ ॥ चतुरस्त्रे लोकपालाः पुनर्देवीं समर्च्चयेत् । इति श्रीदक्षिणामूर्तिसंहितायां दण्डविजयनित्या विधिः पञ्चाशः पटलः ॥ ५० ॥ (१)"षडाक्षराणि वैकैको वसुकाणेषु बै स्वरान् पा।