पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपञ्चाशः पटलः। ११३ एकपञ्चाशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि नित्यां वै सर्वमङ्गलाम् । जीवं चारुणताराढ्यं सर्वान्ते मङ्गलापदम् ॥ १॥ ङेऽन्तं हृदयमालिख्य नवार्णा सर्वमङ्गला । ऋषिश्चन्द्रो महेशानि गायत्री छन्द उच्यते ॥ २ ॥ देवीयं बीजशक्ती तु हृदयद्वन्द्वमेव च । विद्याभागत्रयेणैव द्विरावृत्या षडङ्गकम् ॥ ३ ॥ शुभ्रपद्मासने रम्यां चन्द्रकुन्दसमद्युतिम् । सुप्रसन्नां शशिमुखीं नानारत्नविभूषिताम् ॥ ४ ॥ अनन्तमुक्ताभरणां स्रवन्तीममृतद्रवम् । वरदाभयशोभाढयां स्मरेत्सौभाग्यवर्द्धिनीम् ॥ ५॥ एवं ध्यात्वा जपेद्वर्णलक्षं विजितमन्मथः । तद्दशांशेन जुहुयाच्छुभ्रपद्मैर्मधुप्लुतैः ॥ ६ ॥ अष्टपत्रं च भूबिम्बं तत्रावाह्य सुरेश्वरीम् । उपचारैः समभ्यर्च्य षड्ङ्गावरणं यजेत् ॥ ७ ॥ अष्टपत्रेषु सम्पूज्य पुरआदिक्रमेण तु । राका कुमुद्धती नन्दा शुद्धा सञ्जीवनी क्षमा ॥८॥ आप्यायनी चन्द्रकान्ता ह्लादिनी पुरतो यजेत् ।