पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ दक्षिणामूर्तिसंहिता। ततो ब्रह्मादयः पूज्या भूबिम्बे चा1क्षरीसुराः ॥ ९॥ पुनः सम्पूज्य बहुधा चन्द्रमण्डलवासिनीम् । इति श्रीदक्षिणामूर्तिसंहितायां सर्वमङ्गलानित्या- विधिरेकपञ्चाशः पटलः ॥ ५१ ॥ अथ द्विपञ्चाशः पटलः। ईश्वर उवाच-- ज्वालामालां प्रवक्ष्यामि पुरुषार्थप्रदां सदा । ॐकारं बीजमुच्चार्य नमो भगवतीति च ॥ १॥ ज्वालामालिनि देवि देवि सर्वभूतान्तसं लिखेत् । हारकारिके जातवेदसीति ज्वलन्ति च ॥ २ ॥ ज्वलयुग्मं प्रज्वलेति युगं हूमात्मकं द्विधा । वह्निर्द्विधा च कवचमस्त्रं चाऽपि समालिखेत् ॥ ३ ॥ चत्वारिंशद्वर्णरूपा स्वर्णचक्रे समाहरेत् । ऋषिस्तु कश्यपश्छन्दो गायत्रं देवता त्वियम् ॥ ४ ॥ रेफास्त्रं बीजशक्ती तु कीलकं कवचं प्रिये । रविसूर्यशरर्ष्य॑ष्टवेदैरङ्गानि विन्यसेत् ॥ ५ ॥ (१) 'ककुषीश्वरा" इति पा०।