पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विपञ्चाशः पटलः। ११५ चत्वारिंशद्दलं पद्मं चतुराधिकमीश्वरि । बहिरष्टदलं पद्मं बाह्ये भूबिम्बमालिखेत् ॥ ६॥ कर्णिकायां महाविद्यां दलेषु क्रमतो लिखेत । दुर्गावर्णास्ततो देवि वसुपत्रे स्वरान् लिखेत् ॥ ७ ॥ द्वन्द्वशः परमेशानि वह्निवर्णेन वेष्टयत् । पुनर्विद्यां च भूबिम्बे प्रादाक्षिण्येन पूजयेत्1 ॥ ८ ॥ जातवेदस आलिख्य सुनवाम च सोमम । रातीयतो च निदहाति वेदः सन आलिखेत् ॥ ९ ॥ परिषान्ते दति प्रौढे दुर्गाणीति समालिखेत् । विश्वानावेव सिन्धुं च दुरितात्यग्निरालिखेत् ॥१०॥ एषा दुर्गा वरारोहे जातवेदःस्वरूपिणी । अस्मिन्यन्त्रे समासीनां ज्वालामालां प्रपूजयेत् ॥११॥ आदौ पीठं समभ्यर्च्य दिक्षु मध्ये च शक्तिमिः । जया च विजया भद्रा भद्रकाली सुमुख्यपि ॥१२॥ दुर्मुखी च तथा व्याघ्रमुखी सिंहमुखी तथा । दुर्गा चैतासु सम्पूज्या देवीमावाह्य पूजयेत् ॥ १३ ॥ आदावङ्गानि पूज्यानि ततो देवीं समर्चयेत् । जागती तपनी वेदगर्भा दहनरूपिणी ॥ १४ ॥ सेन्दुखण्डा शुभाद्या च हन्त्री नतमुखी तथा । (१) 'वेष्टयेत्' इति पा० ।