पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ दक्षिणामूर्तिसंहिता 1 अथ चतुःपञ्चाशः पटलः । ईश्वर उवाच- एतत्सर्वात्मक वस्तु त्रिपुरेत्यभिधीयते । एका सत्त्वात्मिका देवी जाग्रदित्याभिधीयते ॥१॥ तदेयं शक्तिरूपा स्यात्सृजन्ती भुवनत्रयम् । उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा ॥ २ ॥ कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् । एषैव तमसा युक्ता शिवरूपा निगद्यते ॥ ३ ॥ मरणं विस्मृतिमूर्छा निद्रा च तमसा वृता । सुषुप्तेस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी ॥ ४ ॥ यदा द्वन्द्वात्मिका देवी रजोरूपोभयात्मिका । संयोगः सत्त्वतमसो रज इत्यभिधीयते ॥ ५ ॥ सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी । अभिलाषो भ्रमश्चिन्ता विषयेषु मनःस्मृतिः ॥६॥ कलाचतुष्टयं स्वप्नावस्थायां तु विधीयते । गुणातीता यदा देवी सा तुर्येत्यभिधीयते ॥ ७ ॥ सुषुप्त्यादौ जागरान्ते स्वप्नावस्था रजोमयी । अभिलाषो भ्रमश्चिन्ता स्फुरत्तामात्रलक्षणा ॥ ८॥