पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःपञ्चाशः पटलः। अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला । भावाभावविनिर्मुक्ता गुणातीता निगद्यते ॥ ९ ॥ वैराग्यं च मुमुक्षुत्वं समाधि1विमलं मनः । सदसद्वस्तुनिर्द्धारतुर्यायास्तु कला इमाः ॥ १० ॥ तुर्यैव परिपाकेन कला सप्तदशी भवेत् । चूतरम्भाफलादीनां पाकेन मधुरो रसः ॥ ११ ॥ अतएव महेशानि कला सप्तदशी भवेत् । उच्चार्यमाणा ये वर्णास्ते वर्णा वाचिका2 मताः ॥१२॥ उच्चाररहितं वस्तु चेतसैव विचिन्तयेत् । चिन्तनात्सामरस्येन साक्षाद् ब्रह्मैव केवलम् ॥ १३ ॥ अत एव महाविद्या तुर्यरूपा वरानने । कलाषोडशकं चैव श्रीविद्यार्णेषु संस्थितम् ॥ १४ ॥ निःसरन्ति महामन्त्रा महाग्नेर्विस्फुलिङ्गवत् । त3थैव मातृका विद्या निःसृता वाग्भवात् प्रिये॥१५॥ अत एव तदेवास्या बीजं वाग्भवमुच्यते । तेनैव वाङ्मयेनासौ त्रैलोक्यं सचराचरम् ॥ १६ ॥ (१)'शमादिविमलं मनः इति पा० । (२) 'उच्चार्यमाणा ये मन्त्रास्ते मन्त्रा याचिकाः प्रिये इति पा०। (३) 'तथैव मातृकावर्णा निःसृता बहवः प्रिये' इति पा० ।