पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। मोहयन्ती तदा देवी कामेशी बीजरूपिणी । पुरुषस्त्रीमयेनासौ स्फुरन्ती विश्वमातृका ॥ १७ ॥ महामोहेन देवेशि कीलयन्ती जगत्त्रयम् । अतस्तत्कीलकं देवि तेन सौभाग्यगर्विता ॥ १८ ॥ पालयन्ती जगत्सर्वं तेनेयं शक्तिरुच्यते । ए1वं कूटत्रयकला महासाम्राज्ज्यदायिनी ॥ १९ ॥ तदा लक्ष्मीमयी देवी जागर्ति भुवनत्रये । महाकोशेश्वरीवृन्दमण्डिता भुवनेश्वरी ॥ २० ॥ एषैव कोशसम्पन्ना कामान् पूरयते परा । कामेश्वरी तदा देवी कामान् पूरयते सदा ॥ २१ ॥ महासिंहासनप्रौढा महा2विश्वस्वरूपिणी । अकथादिमहापीठहक्षवर्णस्वरूपिणा ॥ २२ ॥ तदा कल्पलता देवी वाक्प्रख्य॑3ज्ञानसत्कला । सौभाग्यदायिनी नित्या रत्नतेजोविभूषिता ॥ २३ ॥ जीवानुग्रहसग्र्गेण स्फुरन्ती विश्वमातृका । चतुरायतनैर्वन्द्या चतुर्वेदनमस्कृता ॥ २४ ॥ साम्नायाऽभूत्तदा देवी भुवानानन्दमन्दिरा । अतस्त्रैलोक्यसाम्राज्यप्रदा नित्यात्मिका प्रिये ॥ २५॥ (१) एवं कूटत्रयकला' इति पा०। (२)'विश्वाधारस्वरुपिणी' इति पा० । (३) वाक्युग्पज्ञानमत्कला' इति पा० ।