पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चपञ्चाशःपटलः। १२१ एतत्सर्व पुरस्कृत्य वर्त्तते त्रिपुरा शिवा । प्रपञ्चमध्ये देवेशि केवला ब्रह्मरूपिणी ॥ २६ ॥ अत एव महादेवि कला सप्तदशी भवेत् । षोडशार्णस्वरूपा च नित्याषोडशिकात्मिका ॥२७॥ इति श्रीदक्षिणामूर्तिसंहितायां श्रीनित्याविवरणं नाम चतुःपञ्चाशः पटलः ॥ ५४॥ अथ पञ्चपञ्चाशः पटलः । श्रीदेव्युवाच- त्रिपुरा परमेशी च सर्वमन्त्रमयी शिवा। संविद्रूपा तु कथिता कथं पूज्या सदाशिव ॥ १॥ ईश्वर उवाच- प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ २ ॥ सुप्रसन्नं लसद्भूषामण्डितं शान्तिभूषितम् । वराभयकर नित्यं नमस्कृत्याऽमुना यजेत् ॥ ३ ॥