पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। हस्रौमात्मकमालिख्य हसक्षमलवानिलान् । व्रह्नियुक्तांत्रिधा लेख्य त्रिधा सम्भृष्य च स्वरैः ॥ ४॥ मुखवेष्टनवामानश्रुतिनेत्रैश्च मण्डितैः । बीजत्रयमिदं भद्रे बिन्दुनादकलात्मकम् ॥ ५ ॥ श्रीपरान्ते पावकेति सर्वाराध्यपदं लिखेत् । सर्वमूर्ध्वपुरान्ते च नाथसर्वगुरुस्वयम ॥ ६ ॥ गुरुश्रीगुरुनाथान्ते रहसक्षमलवयान् । रेफदीर्घश्रुतियुतविन्दुनादकलात्मकान् ॥ ७॥ पिण्डीकृत्य लिखेदाद्यं चतुर्थंं च ततो लिखेत् । तृतीयं पूर्ववल्लेख्यं द्वितीयमपि पार्वति ॥ ८ ॥ ततः श्रीशम्भुगुर्वन्ते पुनराद्यं समालिखेत् । आद्यकृत्यं चतुष्कान्ते चाद्यं तार्तीयमालिखेत् ॥ ९॥ वसुसंख्यैश्च देवेशि चत्वारिंशद्भिरक्षरैः । मण्डितोऽयं मनुर्द्देवि स्मरेन्निजगुरुं प्रिये ॥ १० ॥ मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् । उद्यदादित्यरुचिरां स्मरेदशुभशान्तये ॥ १ ॥ क्लीमात्मकं कामदेवं सर्वान्ते जन चालिखेत् । प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये ॥ १२ ॥ चतुर्ल्लक्ष्म्यणुभिर्वत्कं क्षालयेत्सिद्धिहेतवे । स्नानकर्म ततः कुर्यान्मूर्द्धान्तं प्रोक्षयेत्तनुम् ॥१२॥