पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः पटलः। सम्प्रोक्ष्य गुह्यमुद्राढयो मन्त्री पापनिकृन्तनः । आत्मविद्याशिवैस्तत्वैराचमेद्विधया त्रिधा । विविधं तर्पणं कुर्य्यादेवर्षिविधिपूर्वकम् । १३ ॥ विद्ययाऽथ ततो मन्त्री सर्वालङ्कारभूषणः । रक्तवस्त्राङ्गरागस्तु रक्तासनगृहे स्थितः ॥१४॥ विद्यया तत्त्वरुपिण्या विधाऽऽचम्याभिषेचनम् । विद्ययैव त्रिधा देवि चुलुकेनोदके सुधीः ॥ १५ ॥ गृहीत्वा चिन्तयेत्तत्र वहन्नाडीगतं प्रिये । वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् ॥ १६ ॥ ब्रह्महत्या शिरो यस्य स्वर्णस्ते1यं करौ प्रिये । सुरापानं हृदङ्गानि पातकानि बहून्यपि ॥ १७ ॥ उपपातकसङ्घास्तु रोमाणि परमेश्वरि । नानापातकसङ्घास्तु सर्वाङ्गाणि च चिंतयेत् ॥१८॥ खड्गचर्म्मधरं पापं मानसे चिंतयेद् बुधः । भूमौ वज्राशिलां ध्यात्वा धातयेत्तत्र सुन्दरि ॥१९॥ अ2थाध्यं च पुनद्दद्यात्रिधा मूलमनुस्मरन् । हल्लेखा हृदयं देवि शिरो हंसस्ततो वदेत् ॥ २० ॥ वेदाक्षरमहाविद्या सर्वसाराधिदेवता । (१) स्वर्णस्तेयकटिद्वयम्' इति पा०। (२) 'मयाय चषकैर्दधात्रिधा सौरं अनु स्मरन् । इति पा० ।