पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता । काश्मीरदर्प्पणे भुर्जे पूर्व1पीठे लिखेद् बुधः । शलाकया सुवर्णस्य मिश्रया घुसृणेन्दुभिः ।। ४० ॥ सिन्दूररजसा मिस्रैः पद्दे धातुमये लिखेत् । अथवा भूतले देवि सुरेखं कुङ्कुमेन वा ॥ ४१ ॥ सिंदूररजसा वापि लिखेत्सर्वार्थसिद्धये। एतच्चक्रं महेशानि मध्ये बिन्दुविराजितम् ॥ ४२ ॥ त्रिकोणं चैव चाष्टारं दशारं च दशारकम् | मनुकोणं महेशानि मध्ये चक्रमिदं प्रिये ॥ ४३ ॥ बैन्दवादष्टकोणान्तं सर्वमध्यं सुरेश्वरि । चत्वारिंशद्भगैर्युक्तं त्रिभगैरपि पार्वति ॥ ४४ ॥ वसुपत्रं कलापत्रं चतुरस्रं क्रमात् प्रिये । भगात्मकमिदं भद्रे नवयोन्यङ्कितं भवेत् ॥ ४५ ॥ यथेष्टाशामुखो मन्त्री तत्तत्कर्मविधौ सुधीः । प्राङ्मुखः सम्यगासीनो गुरुं नत्वा निजं ततः ॥४६।। पूर्वोक्तमनुना सम्यक् गुरुनाम च संस्मरन् । पार्ष्णिघातकरास्फोटैरूर्ध्वंचक्रैस्तु मान्त्रिकः ॥४७॥ खभूभूतानि सन्त्रास्य करशुध्यादिकं यजेत् । आद्यं द्वितीयवर्णाभ्यां त्रिपुरायान्तिमं लिखेत् ॥४८॥ आद्यं द्वयं बिन्दुनादकलाढयं त्रिपुटं भवेत् । (१) 'अर्चापीठे इति पा०॥