पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चपञ्चाशः पदल। तन्त्रमस्या महेशानि त्रिपुरेशीव नान्यथा ॥ १९॥ मध्यमादितलान्तं तु करशुद्धिविधौ यजेत् । तत आत्मासनं दद्यात्सुन्दर्य्या परमेश्वरि ॥ ५० ॥ वाग्भवं त्रिपुरेश्वर्य्या हित्वा तत्र विनिःक्षिपेत् । हृल्लेखा सून्दरी नाम त्रिपुरेशीव पूजनम् ॥५१॥ चक्रासनं ततो दद्यात्पुरवासिन्यधिष्ठितम् । शिवबीजादिमं बीजत्रयमेतदुदारधीः ॥ ५२ ॥ त्रिपुरेश्यास्तु विधेयं त्रिपूरेशीव पूजनम् । त्रिपुरेशी हसाद्या स्याद्वीजयुग्मे तथान्तिमे ॥ ५३ ॥ शिवाद्या श्रीरियं सर्वमन्त्रासनविधौ यजेत् । सुन्दर्य्या अन्तिमं हित्वा बलेमात्मकमक्षरम् ॥ ५४॥ संयोज्ज्या मालिनी देवी साध्यसिद्धासनस्थिता । तन्त्रमस्या महेशानि त्रिपुरेशीव सम्भवेत् ॥५५॥ आत्मरक्षा प्रकुर्वीत त्रिपुरेश्या महेश्वरि । सम्पत्प्रदा भैरवीयमन्ते सर्गसमन्विता ॥ ५६ ॥ मूर्त्वाहनाविद्या तु सिद्धान्ता परमेश्वरि । सम्पत्प्रदा भैरवीव यजन परमेश्वरिं ॥ ५७ ॥ इति श्रीदक्षिणामूर्तिसंहितायां करशुद्ध्यादिविद्याविधिः पञ्चपञ्चाशः पटलः ॥५५॥