पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ दक्षिणामूर्तिसंहिता। अथ षट्पञ्चाशः पटलः। ईश्वर उवाच- शिवचन्द्रौ मन्मथोरः शक्तिर्वै बिन्दुमालिनी। क्षमाबिन्दुद्दमात्राश्च नववर्णा भवन्ति हि ॥ १ ॥ शि1वशक्तिमयी देवी व्योमाकारेण संस्थिता । विश्वमात्मनि चिद्रूपे वहन्ती सकलालया ॥ २ ॥ चन्द्रेण द्रावयन्तीयं मूलादिब्रह्ममन्दिरा। आप्लावयन्ती सकलं सृजन्ती विश्व2मातरम् ॥३॥ मन्मथेन मनोरूपा तस्मात्तेजोमयी ततः। विस्तारयन्ती सकलं विश्वयोनिरितीरिता ॥४॥ अन्तःकरणवृत्त्यां तु विश्वान्तमातृका भवेत् । नादरूपा परा शक्तिर्बिन्दुरुपा तथा परा ॥ ५ ॥ अन्तर्मायातिविख्याता ययेदं धार्यते जगत् । अतएव क्षमारूपा जगद्धात्री परा भवेत् ॥ ५॥ बिन्दुरूपा पराशक्तिर्नादरूपा महेश्वरि । नादातीता विचारे तु विचारागोचरा ततः ॥ ७ ॥ एवं ब्रह्ममयैर्वर्णैरज्ञाप्यते त्रिपुरामनुः । (१) 'शिवाच्छून्यमयी इति पा० । (२) विश्वमातृका इति पा० ।