पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पश्चाशः पटलः। १२९ नान्यैर्वर्णैर्म्महामन्त्राः सुभगाया भवन्ति हि ॥ ८ ॥ शुद्धाश्च शबला मन्त्रास्तथा चोभयसंज्ञकाः । शुद्धविद्याः शृणु प्रौढे सर्वाम्नायैनमस्कृताः ॥९॥ कामाकाशौ शक्तितूर्य्यभूमा वाग्भवकं यजेत् । अनेन च विलिख्यान्ते विद्याः सर्वागमेश्वरि ॥१०॥ मादनानुजहः कामो मदनाग्रज उच्यते । हित्वानुजं शिवं साग्रं विद्येयं मनु1पूजिता ॥ ११ ॥ कामः सहाग्रजो वापि शिवं कामानुजं विना । सहायं मदने शक्तौ सहाद्यं कानुजं विना ।। १२॥ चन्द्राराधितविद्येयं भुक्तिमुक्तिफलप्रदा । अनुजेन विना कामो हसादिर्वाग्भवे स्मरे ॥ १३ ॥ हसादिः सहकः शक्तावग्रस्थ इति गीयते कुबेराधिष्ठिता विद्या भुक्तिमुक्तिफलप्रदा ॥ १४ ॥ हित्वा हं वाग्भवं कामे हसादिको महामनुः । तूर्य्यैकादशमे हित्वा शक्तिकूटे2ऽथ लिख्यते ॥ १५ ॥ कामानुजत्रयं हित्वा सहसाद्योऽग्रजस्तथा। लोपामुद्रोपासितेयं भुक्तिफल3प्रदायिनी ॥ १६ ॥ (१)"मनुह्रद्रता' इति पा० । (२) 'शक्तिकूटेऽप्यथो लिखेत्' इति पा० । (३) भुक्तिमुक्तिफलप्रदा' इति पा० ।