पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पश्चाशः पटलः। १३१ शक्तिकूटत्रिकार्णं च कामराजस्य संलिखेत् । मायास्थाने हरीवर्णयुगलं च क्रमाल्लिखेत् ॥ २६ ॥ दुर्वाससा पूजितेयं पुरुषार्थप्रदायिनी । एते द्वादश मन्त्राः स्युः शुद्धाः सर्वार्थसिद्धिदाः॥२७॥ अन्येऽपि शुद्धभेदाः स्युः कथ्यन्ते कृपया तव । भेदस्तु मनुविद्यानां नास्ति सर्वागमेष्वपि ॥ २८ ॥ शिवचन्द्रकलाशक्ती हल्लेखा वाग्भवो भवेत् । जीवेशमादनैकाराबिन्दुस्रक् पृथिवी परा ॥ २९ ॥ एतत्कामे च तार्तीये द्वितीया चन्द्रपूजिता । कुबेरशक्तिकूटं च कामकूटं समालिखेत् ॥ ३० ॥ वाग्भवं कामराजं च शक्तिबीजमथो लिखेत् । शिवकामेशशक्तिर्ल परा धनदपूजिता ॥ ३१ ॥ अपरयं महाविद्या लोपामुद्राऽत्र कथ्यते । अगस्त्यस्य महाविद्या कामराजः स एव हि ॥ ३२॥ विष्णुं तिमं (?) वाचि कामं सादि कामस्य मन्मथम् । सह कामान्त्ययुग्मादि शक्तौ नन्दीशपूजिता ॥ ३३ ॥ अगस्त्याराधिता विद्या सैवागस्त्यप्रपूजिता । भेदस्तु सूर्यविद्याया नास्त्येव परमेश्वरि ॥ ३४ ॥ विष्णुविद्यान्तरं वक्ष्ये कूटत्रयविराजितम् । जीवेशक्ष्मापरा विद्या कामेश्या विष्णुपश्चक्रम् ॥ ३५ ॥