पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पञ्चाशः पटलः। १३३ हृल्लेखा मन्मथे शक्तौ सकलाग्निमयी परा । वह्निना पूजिता विद्या महाविघ्नौघघातिनी ॥ ४६ ॥ अगस्त्यकूटयुगलं वह्निपूज्यान्तिमं लिखेत् । विद्या पन्नगराजेन पूजिता भुक्तिमुक्तिदा ॥ ४७ ॥ कशक्तिवह्रियुगुलं भवह्निर्भुवनेश्वरि । हकलाग्निहलामाया सरकक्ष्माग्निमण्डिता ॥ ४८ ॥ माया वायुप्रपूज्येयं महापापौघभञ्जनी । कशक्तिवैन्दवी वह्निक्ष्मामायाहकहात्परौ ॥ ४९ ॥ मायासहकशक्राग्निमायेयं सौम्यपूजिता । कामाकाशक्षमामायाशिवकामहभूचराः ॥ ५० ॥ मायाकाशे शक्तिकूटे सकला भुवनेश्वरी । ईशानाधिष्ठिता विद्या सर्वकामप्रपूरणी ॥ ५१ ॥ कामराजस्य युग्मान्ते जीवक्ष्मामदनापरा । रव्याराधितविद्येयं सर्वकामार्थसाधिका ॥ ५२ ॥ कामाधिष्ठितविद्यान्ते बिलोमान्तां समालिखेत् । नारायणाधिष्ठितेयं षट्कूटा परमेश्वरि ॥ ५३ ॥ कामाद्यं वाग्भवे कामे हकहक्ष्मा परा भवेत् । शक्तावगस्त्यवाक्कूटं विद्येयं ब्रह्मपूजिता ॥ ५४ ॥ अगस्त्यं वाग्भवं वाचि ब्रह्मविधान्तिमद्वयम् । जीवार्चिता महाविद्या सर्वकामप्रपूरणी ॥ ५५ ।।