पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ दक्षिणामूर्तिसंहिता- । एभिर्द्वादशभिर्भेदैः शबलाः परमेश्वरि । शुद्धाशुद्धा महाभेदा ज्ञातव्याः परमेश्वरि ॥ ५६ ॥ विद्याः संलिख्य शुद्धास्तु विपरीतास्ततो लिखेत् । ता एव हि तदा शुद्धाः शुद्धभेदा भवन्ति हि ॥५७॥ यावन्तः शुद्धभेदाः स्युस्तावन्तश्च क्रमात् प्रिये । तथैव शबलद्वन्दभेदा देवि भवन्ति हि ॥ ५८ ॥ भेदाः सर्वेऽन्त्ययाऽऽपीडय मायया तुर्य्यसंज्ञकाः । ते ज्ञानगहना ब्रह्मरूपास्तु परमेश्वरि ॥ ५९ ॥ ज्ञातव्या गुरुवक्रेण त्वन्यथा शापमाप्नुयात् । अथ वक्ष्ये महेशानि चतुर्द्धा ज्ञानमुत्तमम् ॥ ६० ॥ एकधा कथितं चैतत्प्रकारान्तरमुच्यते । यस्य स्मरणमात्रेण वाजपेयशतं भवेत् ॥ ६१ ॥ वक्ष्यमाणं बीजयुग्ममादौ संयोज्य संस्मरेत् । प1राशरेन्दुनागाद्य़ं द्वितीयं भेद उच्यते ॥ ६२ ॥ एतद्वेदादिसंसेव्यं तृतीयो भेद उच्यते। स्वयं ब्रह्मा महेशानि सकृदुच्चारणाद् बुधः ॥६३॥ अथ तुर्यप्रकारश्च कथ्यते भुवि दुर्लभः । यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ ६४ ॥ (१)"पाराशरे स्वरेन्द्रादिद्वितीय भेदउच्यते॥ इति पा०।