पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पञ्चाशः पटलः। स्वयं ब्रह्मा स्वयं विष्णुः स्वयं रुद्रो न संशयः। किं पुनर्देवदेवेशि स्वयं कामः1 स्वयं प्रभुः ॥ ६५ ।। अश्वमेधसहस्त्राणि वाजपेयस्य कोटयः। नरमेधसहस्त्राणि सकृदुच्चारणात्प्रिये ॥ ६६ ।। काश्यादितीर्थयात्रास्तु प्रादक्षिण्यं भुवस्तथा । गङ्गास्नानसहस्राणि नामोच्चारणमन्त्रिणः ॥ ६७ ।। किं पुनर्देवि साक्षात्तु मन्त्रा ब्रह्म न संशयः । द्वितीयस्यादियुग्मं तु विपरतिं लिखेत्सुधीः॥ ६८ ॥ कलावन्तर्मुखं कृत्वा विलिखेच्च ततः परम् । एतत्सम्पुटितं कृत्वा तृतीयं परमेश्वरि ॥ ६९ ।। श्रीविद्येयं मया ख्याता वर्णितुं नैवं शक्यते । जिह्वाकोटिशतैर्देवि वक्त्रकोटिशतैरपि ॥ ७० ॥ पञ्चास्येन कथं देवि वर्णितुं शक्यते मया । श्रीविद्या सर्वविद्यानां राज्ञी स्तोतुंन शक्यते॥७१॥ षोडशाक्षरसम्पन्ना स्वयं पञ्चदशी कला । श्रीगुरोः कृपया लभ्2या सर्वसिद्धिप्रदायिनी ॥ ७२ ॥ अन्ते निरामयं ब्रह्म मन्त्री भवति नान्यथा । ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान् ॥ ७३ ॥ (१) "स्वयं कामेश्वरो विभुः" इति पा० । (२) लब्धा' इति पाठान्तरम् ।