पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीदक्षिणामूर्तिसंहिता। अथ प्रथमः पटलः। श्रीमच्छ्रीकोशहृदयं पञ्चसिंहासनात्मकम् । फलं कल्पलतानाञ्च चारुरत्नस्फुरत्कलम् ॥१॥ चतुरायतनानन्दि चतुरन्वयकोशगम् । नित्यानन्दि परं ब्रह्म धाम नौमि सुखाप्तये ॥२॥ श्रीदेव्युवाच- कृपां कुरु महादेव कृपयानन्दसुन्दर । किन्तु ब्रह्ममयं धाम श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥ कथं श्रीसहितं देव श्रीकोशहृदयं कथम् । पञ्चसिंहासनैः सेव्यं कथं कल्पलतात्मकम् ॥ ४ ॥ कथं रत्नात्मकं देव कथमायतनात्मकम् । कथमाम्नायसंसेव्यं कथं नित्यात्मकं प्रभो ॥ ५ ॥ ईश्वर उवाच- एतत्सर्वात्मकं ब्रह्म त्रिपुरा परमेश्वरी चतुर्लक्ष्मीसेव्यमाना सदा कामदुधा वरा ॥ ६ ॥