पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसहिता। उपपातकलक्षाणि हन्ति श्रीस्मरणं क्षणात् । सर्वे कल्याणमन्त्रास्तु भवन्ति परमेश्वरि ॥ ७४ ॥ एकोनविंशवर्णस्तु नारायणहरिद्वये । शिवविद्या महेशानि सिद्धाः सप्तदशाक्षराः ॥ ७५ ॥ द्वन्द्वविद्यास्तु सकला एकोनविंशदक्षराः । नारायणी वैष्णवी च पञ्चविंशतिवर्णिका ॥ ७६ ॥ ज्ञातव्या गुरुवक्त्रेण नान्यथा फ1लमाप्नुयात् । चतुःषष्टिर्यतः कोट्यो योगिन्यो मातृमण्डलात् ॥७७॥ विना गुरूपदेशेन साधकं नाशयन्ति हि । इति श्रीदक्षिणामूर्तिसंहितायां श्रीविद्याविवरणं नाम षट्पञ्चाशः पटलः ॥ ५६ ॥ (१) 'णान्यथा शापमवानुयात् । इति पा०।