पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

सस्पञ्चाशः पटलः। अथ सप्तपञ्चाशः पटलः। ईश्वर उवाच- श्रीविद्यामानसो भूत्वा वामभागे महेश्वरि । चतुरस्रं जलेनैव मण्डलं पूरयेत्प्रिये ॥१॥ गन्धपुष्पाक्षतैस्तत्र यन्त्रिकां पूजयेत्तथा । शङ्खं तत्र तु संस्थाप्य जलपूर्ण् सहेतुकम् ॥ २ ॥ सम्यगभ्यर्च्य तेनैव त्रिपु1रामण्डलं यजेत् । चतुरस्रं लिखेत्तत्र यन्त्रिकां स्थापयेत्सुधीः ॥ ३ ॥ त्रिकोणवृत्तषट्कोणं मण्डलं पूजयेत्कमात् । समस्तां व्यस्तरूपां च त्रिकोणे पूजयेच्छुचिः ॥४॥ द्विरावृत्त्या षडङ्गैस्तु षट्कोणेषु प्रपूजयेत् । आद्यबीजेन वह्निं तु यन्त्राकारेण 2पूजयेत् ॥ ५ ॥ हेमादिनिर्मितं पात्रं नारिकेलोद्भवं प्रिये । महाशङ्ख विशेषेण भुक्तिमुक्तिफलप्रदम् ॥ ६ ॥ नालिकेरोद्भवं पात्रं सर्वैश्वर्यसुखप्रदम् । मुक्तिप्रदं विशेषेण सर्वकर्मकरं सदा ॥ ७ ॥ गन्धादिनार्चितं धूपधूपितं पात्रमुत्तमम् । यन्त्रिकायां प्रतिष्ठाप्य पूर्वोक्तं यन्त्रमालिखेत् ॥८॥ (१) 'पुरतो' इति पा०। (२) 'पूजयेत्' इति पाठान्तरम् ।