पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ दक्षिणामूर्तिसंहिता। तथैव पूजयेत्कामकूटमुच्चार्य सुन्दरि । सूर्यपात्रमयं तत्र विशेषेण च योजयेत् ॥ ९ ॥ भा1गद्वयाविशेषस्य भागमा2त्रं जलं क्षिपेत् । तत्रापि संलिखेत्पूर्व यन्त्रपूजां च कारयेत् ॥ १० ॥ त्रिकोणे पूजयेद्विद्यां मध्ये कोणत्रयं ततः। कूटत्रयं क्रमणैव यथा विद्या तथाविधम् ॥ ११ ॥ श्रीविद्याविषये देवि सम्पुटत्वेन पूजयेत् । सर्वत्रायं क्रमो देव्या नात्रालस्यं चरेत्प्रिये ॥ १२ ॥ देवीमूलषडङ्गानि क्रमेण परिपूजयेत् । शक्तिकूटं समुच्चार्य तज्जलं चन्द्ररूपकम् ॥ १३ ॥ सम्पूज्य मध्ये त्रयस्रं तु मातृकात्मकमाचरेत् । पञ्चकोशमहाविद्याःसंस्मरेत्तत्र सुन्दरि ॥ १४ ॥ तार्त्तीयं श्रीगुरोर्बीजं हंसविद्यामनुं यजेत् । रुद्रः स्वयं3 च देवेशि श्रीविद्यां सप्तधा जपत ॥१५॥ स्पृष्ट्वार्द्धं च ततो गन्धं पुष्पाद्यैरर्चयेत्ततः । चिदानन्दमयं धाम नेत्रद्वारागतं स्मरेत् ॥ १६ ॥ प्रोक्षयेत्तेन सकलं पूजाद्रव्यान्तरं ततः । आत्मानमपि सर्वं तद्विद्यारूपं भवेत्प्रिये ॥ १७ ॥ (१) भागत्रयावशेषस्य इति पा०। (२) त्रिभागन्तु' इति पा० । (३) 'वारत्रयं इति पा०।