पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपञ्चाशः पटलः। १३९ अङ्गुष्ठानामिकाभ्यां तु वाम1मार्गेण सुन्दरि । तत्त्वमुद्रेयमाख्याता महापापनिकृन्तनी ॥ १८ ॥ अङ्गुष्ठतर्जनीभ्यां तु ज्ञानमुद्रेयमीरिता । अनया पुष्पपूजा स्यात्तथा तर्पणपूजने ॥ १९ ॥ भृतशुद्धिविधिं कुर्यान्मन्त्री देहस्य शुद्धये । वायुबीजेन देहस्थधातवः पापसंयुताः ॥ २० ॥ संशोष्य वह्निबीजेन पापेन सहितं दहेत् । पापं विना पुनर्देहममृतीकृत्य जीवयेत् ॥ २१ ॥ जलबीजेन देवेशि पार्थिवेन स्थिरीकुरु । ततो देहस्य सन्नाहं सम्यग् न्यासं समाचरेत् ॥२२॥ करशुद्धिविधिं कृत्वा चतुरासनदेवताः । पादयोर्जङ्घयोर्जान्वोर्मूलाधारे च विन्यसेत् ॥ २३ ॥ कनिष्ठाङ्गुष्ठरहितैस्त्रिभिस्तु हृदि विन्यसेत् । मध्यमानामिकाभ्यां तु न्यसेच्छिरसि मन्त्रवित् ॥२४॥ शिखागुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् । हृद्गतैर्नेत्रविन्यासं विन्यसेत्परमेश्वरि ॥ २५ ॥ तर्जनीमध्यमाभ्यां तु ततोऽस्त्रं विन्यसेप्रिये। आत्मरक्षाकरी विद्यां द्विरुच्चार्य न्यसेद् बुधः ॥२६॥ व्यापकत्वेन मूर्ति तु विन्यसेसिद्धिहेतवे । (१) 'वामकर्णन इति पा० ।