पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् ॥२७॥ सम्पूर्णा चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् । स्रवत्सुधां षोडशाणां महासौभाग्यदां स्मरेत् ॥८॥ वामांसदेशे सौभाग्यदण्डिनी भ्रामयेत्ततः। रिपुजिह्वाग्रहां मुद्रां पादमूले विनिःक्षिपेत् ॥ २९ ॥ त्रैलोक्यस्य त्वहं कर्त्ता ध्यात्वैवं तिलके न्यसेत् । सम्पूर्णामेव वदने वेष्टनत्वेन विन्यसेत् ॥ ३० ॥ व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च । त्रैलोक्यं क्षोभयत्याशु न्याससन्नद्धविग्रहः ॥ ३१॥ मुष्टिं ध्यात्वोच्चरेन्मन्त्री तर्जनी दण्डवत्तथा । सौभाग्यदण्डिनी नाम रिपून्दण्डयते क्षणात् ॥३२॥ अङ्गुष्ठं मुष्टिगं कुर्याद्रिपुजिह्वाग्रहा भवेत् । संयोज्य हस्तौ देवेशि तर्जन्याऽनामिकां यजेत् ॥३३॥ तद्वद्वामे च सङ्घृष्य योन्याकारेण योजयेत् । उपर्यङ्गुष्ठयोगेन योनिमुद्रेयमीरिता ॥ ३४ ॥ अनया मुद्रया देवि त्रैलोक्यं वशमानयेत् । परिभ्राम्यानामिकां तु मूर्द्धानं परितः प्रिये ॥३५॥ ब्रह्मरन्ध्र क्षिपेद्देवि मणिबन्धे न्यसेत्ततः । ललाटेऽनामिकां कुर्याच्छोडशाणां स्मरेत्प्रिये ॥३॥ त्रैलोक्यमरुणं ध्यायेन्न्यासः सम्मोहनाभिधः ।