पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपञ्चाशः पटलेः। १४१ पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्ठके ॥ ३७ ॥ नाभौ पार्श्वद्वयोश्चैव स्तनयोरंसयोस्तथा । कर्णयोर्ब्रह्मरन्ध्रे च वदने न्धुनिं पार्वति ॥ ३८ ॥ ततः कर्णप्रदेशे तु करवेष्टनयोः क्रमात् । संहारोऽयं महान्यासो बीजैः षोडशभिर्न्यंसेत् ॥३९॥ गोलकं च ततः कुर्यात्त्रैलोक्यक्षो1मकारकम् । मातृकां विन्यसेत्पश्चाद्गणेशग्रहरूपिणीम् ॥ ४० ॥ नक्षत्रयोगिनीराशिपीठवर्णस्वरूपिणीम् । सकलाम्नायविद्याभिरङ्कितां विश्वमातरम् ॥ ४१ ॥ शिरोललाटभ्रूमध्यकण्ठहन्नाभिगोचरे । आधारे व्यूहकं यावद्रहस्या योगिनीर्न्यसेत् ॥४२॥ ब्रह्मरन्धेऽलिके नेत्रश्रुतिघ्राणौष्ठकेषु च । दन्तयोरोष्ठ2योरूर्द्ध्वे जिह्वायां चोत्तरकर्षके ॥४३॥ पृष्ठे सर्वाङ्गहृदयस्तनकुक्षिषु लिङ्गके । श्रीविद्यार्णैर्न्न्यंसेद्देवि मन्त्री सर्वसमृद्धये ॥ ४४ ॥ काननाक्षिश्रुतिघ्राणगण्डौष्ठेषु मुखान्तरे । नेत्रयोर्वदने वर्णान्न्यसेत्सौभाग्यहेतवे ॥ ४५ ॥ कसीमन्तललाटेषु भ्रूयुगे घाणवक्त्रयोः । (१) 'मोक्षकारकम्' इति पा०। (२) 'दन्तान्तरोर्द्ध्वयोर्देवि' इति पा० ।