पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ दक्षिणामूर्तिसंहिता। करसन्धि1नखाग्रेषु षोडशार्णान्क्रमान्न्यसेत् ॥४६॥ शिरोललाटहद्वक्त्रे जिह्वापत्सन्धिकोटिषु । षोडशार्णान् न्यसद्वत्क्रे स्वरस्थानेषु च क्रमात् ॥४७॥ ललाटगलह्रन्नाभिमूलाधारा2दिपञ्चकम् । ब्रह्मरन्ध्रे मुखे वह्नि3बीजत्रयमथो न्यसेत् ॥ ४८ ॥ आधारे हृदये ब्रह्मरन्ध्रे बीजत्रयं ततः। करपादेषु हृदये पञ्चबीजानि विन्यसेत् ॥ ४९ ॥ व्यापकं गोलकं कुर्यान्महासौभाग्यहेतवे । श्रीविद्यां हृदये देवि सम्पूर्णां विन्यसेत्सुधीः ॥५०॥ पुष्पैर्वाऽनामया वाऽपि मनसा वा न्यसे4दनु । एवं विन्यस्तदेहस्तु मुद्राः सन्धारयेत्क्रमात् ॥ ५१ ॥ पूर्वोक्तयोनिमुद्रायाः पृथक् खण्डत्रयं कुरु । अगुष्ठाभ्यां कनिष्ठाभ्यां मध्यमाभ्यां क्रमेण तु ॥५२॥ त्रिखण्डा नाम मुद्रेयं त्रिपुराह्वानकर्मणि । अनामिकाकनिष्ठाभ्यां मध्यमे रोधयेत्ततः ॥ ५३ ॥ अ5गुष्ठावञ्जलौ लग्नौ दण्डवत्तर्जनीद्वयम् । (१) 'करसन्धिषु साग्रेषु' इति पा०। (२) 'मूलाधारेषु पञ्चकम्' इति पा० । (३) 'बस्तिषीजत्रयामिति पा०1 (0) 'न्यसेदणुम्' इति पा० । (५) 'अङ्गष्ठावनुजालग्नौ इति पा० ।