पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपञ्चाशः पटलः। १४३ क्षोभणीयं महामुद्रा द्रावणी तु निगद्यते ॥ ५४ ॥ एतस्या एव मुद्राया मध्यमे तर्जनीयुते । सर्वविद्राविणी नाम द्वितीया परिकीर्तिता ॥ ५५ ॥ एतस्या एव मुद्राया तर्जनीमध्यमायुतम् । अङ्कुशाकाररूपेण योजयेत्परमेश्वरि ॥ ५६ ॥ त्रैलोक्याकर्षणी मुद्रा तृतीया परिकीर्तिता। मुकुटाकृतिकरौ कुर्यात्तर्जन्यावङ्कुशाकृती ॥ ५७ ॥ परस्परं क्रमेणान्यमध्यमे तदधोगते । क्रमेणानेन मनुवित् कनिष्ठानामिकाद्वयम् ॥ ५८ ।। संयोज्य घर्षयेत्सर्वा अगुष्ठावग्रदेशगौ । सर्वा वशकरी मुद्रा चतुर्थी परमेश्वरी ॥ ५९ ॥ सम्मुखौ तु करौ योज्यौ मध्यमागर्भगेऽनुजे । तर्जनीभ्यां बहिर्युक्ते अनामे सरले कुरु ॥ ६ ॥ मध्यमानखदेशे तु ततोऽङ्गुष्ठौ तु दण्डवत् । उन्मनी नाम मुद्रा तु पञ्चमी परिकीर्तिता ॥६१ ॥ क्रमेण पञ्च बाणास्तु मनवः परिकीर्तिताः । एतस्या एव मुद्रायास्तर्जन्यौ मध्यमानुजे ॥ ६२ ॥ कुर्यान्महाङ्कुशाकारौ मुद्रेयं तु महाङ्कुशा । अङ्कुशाख्यमहाबीजं मनुरस्याः प्रकीर्तितः ॥ ६३ ॥ वामदक्षिणबाहौ तु दक्षिणं सव्यहस्तगम् ।