पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ दक्षिणामूर्त्तिसंहिता। बाहुं कुर्यात्ततो देवि हस्तं सङ्घर्षयेत्क्रमात् ॥ ६४ ॥ कनिष्ठानामिकाद्वन्द्वं मध्यमापृष्ठगं ततः । तर्जनीमध्यगं कुर्यादुभयत्र महेश्वरि ॥ ६५ ॥ अगुष्ठौ सरलौ कृत्वा पार्थिवे योजयेदिमाम् । खेचरीयं महामुद्रा त्रैलोक्यक्षोभकारिणी ॥ ६६ ॥ विजयाचं महाबीजं मनुरस्याः प्रकीर्तितः । ए1षा समयमुद्रैव सर्वासां परिकीर्तिता ॥ ६७ ॥ परि2वर्त्य करौ देवि त्वर्द्धचन्द्राकृती ततः । तर्जन्याङ्गुष्ठयुगलं युगपत्कारयेदधः ॥ ६८ ॥ अधः कनिष्ठावेष्टत्वे मध्यमे स्वमुयोजयेत् । अनामिके च कुटिले सर्वाधस्ता नियोजयेत् ॥६९॥ बीजमुद्रेयमाख्याता मनुरस्या हसो मिति । पूर्वोक्तयोनिमुद्रा तु नवमी परिकीर्तिता ॥ ७० ॥ शक्तिवृन्दे स्फुरन्तीयं तस्मात्साधरणी भवेत् । वाग्मवं मनुरेतस्या अतो विश्वस्य मातृका ॥ ७१ ॥ इति श्रीदक्षिणामूर्तिसंहितायां यजनन्यासमुद्राविकरणं नाम सप्तपञ्चाशः पटलः ॥ ५७ ॥ (१) इदमर्द्धं पुस्तकान्तरेनास्ति । (२) 'परिस्वष्टौ इति पा०।