पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः पटलः। अथाष्टपञ्चाशःपटलः। इश्वर उवाच- श्रीखण्डरक्तश्रीखण्डश्रीपर्णीसम्भवे पटे । चक्रं संस्थापयेद्देवि नान्यत्र परमेश्वरि ॥१॥ एवं विन्यस्तदेहः सन्ध्यायेद्ब्रह्माण्डमण्डलम् । क्षित्यम्बुपावकाकाशवह्नि1रूपप्रकाशकम् ॥ २ ॥ चतुरश्रं च कोदण्डं त्रिकोणं तत्पुटे मुखम् । निरालम्बमितिख्यातमेतद्वै मेरुमण्डलम् ॥ ३ ॥ अस्योर्द्ध्वे व्यापकं चक्रं वाक्षट्पदविजृम्भितम् । लीना वाग्वस्तुनिर्देशादपरा योगिषु स्मृता ॥ ४ ॥ परा श्रीशाम्भवज्ञाने वानस्पत्येषु मध्यमा । सर्वजन्तुषु पश्यन्ती वैखरी ज्ञानयोनिषु ॥ ५ ॥ एवं वाक्पदसम्पन्नसहस्रदलनीरजम् । एतस्योर्द्ध्वे परं चक्रं परपीयूषमन्दिरम् ॥ ६ ॥ चतुरस्रं व्धष्टपत्रं चतुःषष्टिदलं शुभम् । शतपत्रं सहस्रारायुतारं लक्षपत्रकम् ॥ ७ ॥ कोटिपत्रं सुशोभाढ्यं दीप्यमानं नभस्तले । तत्कार्णिकापीठमध्ये संस्मरेच्चकनायिकाम् ॥ ८ ॥ महाषडध्वजननं स्फुरन्तं सर्वतोमुखम् । (१) 'चित्स्वरूपप्रकाशकम् इतिपा० ।