पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ दक्षिणमूर्तिसंहिता। षडध्वरूपमधुना शृणु योगेशि साम्प्रतम् ॥ ९॥ पदाध्वा चक्रपत्रेषु भुवनाध्या त्रिसन्धिषु । वर्णाध्वा मातृकापीठे सर्वमन्त्रविजृम्भिते ॥१०॥ षट्त्रिंशत्तत्त्वखचितं1 चक्रं 2मूलार्णरूपतः । पञ्चसिंहासनोन्नद्धा कला 3श्रीचकशासनात् ॥ ११ ॥ नवधा तच्च 4भवति तथान्त्यपरया युता । षोड़शाणस्वरूपा च चक्रं व्याप्य विजृम्भते ॥ १२ ॥ मन्त्राध्वेति तदा ख्यातो नीरजायतलोचने । एवं षडध्वसञ्चारि श्रीचक्रं परिचिन्तयेत् ॥ १३ ॥ कर्णिकायां परं वस्तु ततश्चैतन्यमक्षरम् । तत आत्मपदं चैव बैन्दवं स्फुरणं ततः ततः स्वरूपं विमलं ततः सत्त्वादिसम्भवः चैतन्याकाशपीठं तु खात्मक5त्वं तु शासनात् ॥१५॥ स्फुरणाद्वल्लरी6पीठं सुधापीठं तु बैन्दवात् । स्वरूपाद्रतत्नपीठं तु तत्त्वाद्विश्वं प्रकीर्तितम् ॥ १६ ॥ (१) 'भरितं' इतिपा० (२) 'मूलानुरूपतः" इतिपा० । ३) कलाध्वा चक्रशासनः" इतिपा०1 (७)'चक्रभरिता इतिपा० । (५) 'स्वात्मकात्पञ्चशासनम् इतिपा। (६)वल्लभापीठं इतिपा।