पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः पटलः । बिन्दुस्थाने मुखं कृत्वा तस्याधस्तात्कुचद्वयम् । बिन्दुद्वयं तदधो हकारोर्द्ध्वे ईकारः कुचद्वयादधः॥१७॥ श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि । महाकोशेश्वरीवृन्दमण्डितासनसंस्थिता ॥ १८ ॥ सर्वसौभाग्यजननीपादुकां पूजयामि च । इत्युच्चार्य परंज्योतिःकोशाम्बां पूजयेत्सुधीः ॥ १९ ॥ अनेनैव प्रकारेण पूजयेत्पञ्च 1सुन्दरीः । एतत्सर्वात्मकं वस्तु संलीनं परवस्तुनि ॥२०॥ तत्सर्वं सात्मकं वृत्तिः सैव सौभाग्यसुन्दरी । बिन्दुत्रयसमायोगात्त्रिबिन्दौ त्रिपुरा स्थिता ॥ २१ ॥ बिन्दुं सङ्कल्पयेद्वत्क्रं तस्याधस्तात्कुचद्वयम् । तदधः सपरार्धं च चिन्तयेत्तदधोमुखम् ॥ २२ ॥ एवं कामकलारूपं साक्षादक्षररूपिणी । बिन्दुत्रयार्ध्धं मात्राभिः केवलं विश्वमातृका ॥ २३ ॥ तत्तस्मात्कारणात् देवि त्रिपुराशक्तिरुच्यते । अन्यासां त्रैपुरं बिन्दुत्रयं नास्त्येव शाश्वतम् ॥२४॥ तदिच्छया भवेत्सृष्टिर्लयं तत्रैव गच्छति । सैव देवी महेशानी स्वात्मानमिति चिन्तयेत् ॥२५॥ अजान्तकमतङ्गाख्यभापीठोपरि संस्थिते । (१) 'पूजयेत्पञ्चपञ्चकम् । इतिपा०