पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ दक्षिणामूर्तिसंहिता। तिथिसंख्यफणाहीरमध्यमौलिसरोरुहे ॥ २६ ॥ तत्रस्थे बैन्दवे पीठे तत्र नित्याकलाम्बुजे । तत्र कामेश्वरीपीठे निषण्णां तत्सधर्मिणीम् ॥ २७ ॥ आज्ञालोकमयेशानीं ब्रह्मविष्ण्वीशसाक्षिणीम् । अकारादिक्षकारान्तवर्णावयवसुन्दरीम् ॥ २८ ॥ मूलादिब्रह्मरन्ध्रान्ते बिसतन्तुस्वरूपिणीम् । उद्यद्भास्वत्समाभासां जपाकुसुमसन्निमाम् ॥ २९ ॥ सद्यः सन्तप्तहेमाभां दाडिमीकुसुमोज्वलाम् । सुगन्धोद्दामपुष्पस्रक्पूर्णधम्मिल्लराजिताम् ॥ ३० ॥ तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । भङ्गरेखास्फुरन्मुक्तामाणिक्यतिलकोज्ज्वलाम् ॥३१॥ स्फुरद्रत्नावलीरम्यां मुकुटोज्ज्वलकिङ्किणीम् । अलक्तकस्फुरच्चन्द्रवदनां बिन्दुमाधुरीम् ॥ ३२ ॥ राजच्चन्द्रकलास्फूर्तितिलकां चापसद्धृवम् । कर्णचुम्बिस्फुरन्नीललोलाक्षिक्षेपसुन्दरीम् ॥ ३३ ॥ हीरमुक्तावलीराजत्स्वर्णताटङ्कराजिताम् । कर्णभूषणतेजोभिः कपोलस्थलमञ्जरीम् ॥ ३४ ॥ मुखचन्द्रोज्ज्वलच्छुकाकारमौक्तिकनासिकाम् । स्मितमाधुर्यविजितब्रह्मविद्यारसप्रभाम् ॥ ३५ ॥ रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ।