पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः पटले:1 १४९ कराम्बुजनखज्योत्स्नावितानितनभस्तलाम् ॥ ३६ ॥ सुवृत्तनिबिडोत्तुङ्गकुचभागशशिप्रभाम् । नवमुक्तामहाहारपदकोन्नतवक्षसम् ॥ ३७ ॥ शातोदरी निम्ननाभिक्षाममध्यमसुन्दरीम् । अनर्घ्यरत्नघटितमेखलालग्नमकिङ्किणीम् ॥ ३८ ॥ नितम्बबिम्बसुभगां रोमराजिविराजिताम् । रक्तांशुकस्फुरत्तेजोव्याप्तत्रैलोक्यमण्डलीम् ॥ ३९ ॥ दिव्यकञ्चुकसंराजद्रत्नचित्रविचित्रिताम् । कदलीललितस्तम्भसूक्ष्मोदरविराजिताम् । नवरत्नस्फुरत्वेजोमञ्जरीव्याप्तदेवताम् ॥ ४० ॥ ब्रह्मविष्णुमहेशानस्फुरन्मौलिपदाम्बुजाम् । कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ॥ ४१ ॥ प्रवालवल्लीघटितपाशक्षौमगुणान्विताम् । द्वितीयाचन्द्रलेखाङ्कसृणिमाकर्षणक्षमाम् ॥ ४२ ॥ सद्विद्याभ्रमरीभूतगुणभिक्षुशरासनाम् । कमलाकारसंराजत्पञ्चबाणांश्च बिभ्रतीम् ॥ ४३ ॥ महामृगमदोदारकुङ्कुमारुणविग्रहाम् । सर्वाभरणशोभाढ्यां सर्वालङ्कारभूषिताम् ॥ ४४ ॥ सर्वदेवमयी देवीं सर्वमन्त्रमयीं पराम् । सर्ववर्णमयीं देवीं सर्वयन्त्रमयीं पराम् ॥ ४५ ॥