पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। सर्वतीर्थमयीं देवीं सर्वशास्त्रमयीं प्रिये । सर्वदेवमयीं देवीं सर्वाचारस्वरूपिणीम् ॥ ४६ ॥ सर्वसौभाग्यजननीं सर्वसौभाग्यसुन्दरीम् । एवं ध्यायन् महादेवीं कदम्बवनमध्यगाम् ॥ ४७ ॥ वहन्नाडपुिटाद्वायोर्निःसृतां चिन्तयेत्तथा । कामेश्वरीं शिवस्याङ्के स्थापयेत्कुलसुन्दरि ॥ ४८ ॥ विद्ययाह्वानरूपिण्या मुद्रया च तथा प्रिये । मुद्राः सन्दर्शयेद्विद्वांस्तर्पणं च त्रिधा यजेत् ॥४९॥ सर्वोपचारैराराध्य मानसैः प्रकटैः शुभैः । धूपदीपनिवेद्यान्तैः पुनर्मुद्राः प्रदर्शयेत ॥ ५० ॥ पुनः सन्तर्प्य देवेशीं तिथिनित्यां प्रपूजयेत् । एतस्मिन्समये देवि तत्तत्तिथिमयीं यजेत् ॥ ५१॥ प्रतिपत्पौर्णमास्यन्तमेकैकं पूजयेत्तु यः। सौभाग्यं लभते मन्त्री महदैश्वर्यमाप्नुयात् ॥ ५२ ॥ एकादिवृद्ध्या हान्या च दर्शान्तं क्रमतो यजेत् । विभाव्य च महान्न्यस्रं स्वरैः पञ्चदशात्मकैः ॥५॥ पञ्चपञ्चविभेदेन सर्वान्त्यं मध्यमं यजेत् । मध्ये देवीं यजेद्देवि महानित्यां प्रपूजयेत् ॥ ५४ ॥ कामेश्वर्यादिका नित्या विचित्रान्ताः क्रमाद्यजेत् । (१) वहन्नासीपुटद्वारेनिर्गतां चिन्तयेत्ततः । इतिपा० ।