पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः पटलः। १५१ विमलाजयिनीमध्ये पूजयेद् गुरुमण्डलम् ॥ ५५ ॥ पराख्या दिव्यगुरवः सिद्धा देवि परावराः । अपरा मानवा ज्ञेया मुनिवेदाष्टसंख्यया ॥ ५६ ॥ आनन्दनाथशब्दान्ताः पुरुषाः परिकीर्तिताः । अम्बान्ता गुरवो ज्ञेयाः स्त्रीलिङ्गाः परमेश्वरि ॥५७॥ कामराजस्य गुरवः कथ्यन्ते शृणु सुन्दरि । परप्रकाशसंज्ञश्च ततः परशिवो गुरुः ॥ ५८ ॥ परशक्तिश्च कौलेशः शुक्ला देव्यम्बिका तथा । कुलेश्वरस्तथा देवि कामेश्वर्यम्बिका गुरुः ॥ ५९ ॥ अथ योगस्तथा क्लिन्नः समयः सहजस्तथा । गगनो विश्वविमलौ मदनो भुवनो गुरुः ॥ ६ ॥ लीलात्मकाप्रिया देवि क्रमेण परिकीर्तिताः। लोपामुद्रागस्त्ययोश्च पारम्पर्यमयो भवेत् ॥ ६१ ॥ परमाद्यः शिवः पश्चात्कामेश्वर्यम्बिका ततः । दिव्यौघाश्च महौधाश्च सर्वे च गुरवः क्रमात् ॥६२॥ प्रज्ञादेवीप्रकाशस्तु चतुष्कं कथ्यते शृणु । दिव्याश्चित्रश्च कैवल्यो देव्यम्बा च महोदयः ॥६॥ चिद्विश्वशक्तीश्वरकाः कमलाश्च मनोहराः । पर आत्मा गुरुद्वन्द्वं प्रतिभोऽष्टौ तु मानवे ॥६॥ अन्यासां सर्वविद्यानां समाना गुरवः क्रमात् ।