पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ऊनपष्टितमः पटलः। १५३ अथोनषष्टितमः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि श्रीविद्याक्रममुत्तमम् । अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ १ ॥ स्वस्वमुद्राः क्रमेणैव पूजयेन्मनुवित्तमः । भूबिम्बं षोडशारं च वसुपत्रं क्रमेण च ॥ २ ॥ सृष्टिचक्रं भवेदत्र पूजनं कथ्यते प्रिये । श्रीः परिज्योतिराद्याश्च सर्वाः सम्पूजयेत्क्रमात् ॥ ३ ॥ मन्वस्त्रं दशकोणं च द्वितीयं दशकोणकम् । स्थिति चक्रे पूजनं च विभेदेन यजेत्तथा ॥ ४ ॥ अष्टकोणं त्रिकोणं च बैन्दवं संहृतिर्भवेत् । तृतीयाः सकलाः पूज्या अनाख्यं सकलं भवेत् ॥५॥ तुर्यविद्यास्तु सकलाः पूजयेत्क्रमतः सुधीः । अनेनैव प्रकारेण विद्यावृन्दं प्रपूजयेत् ॥ ६ ॥ श्रीकोशसिंहासनगं तथा कल्पलतात्मकम् । तथा रत्नात्मकं देवि चतुरायतनात्मकम् ॥ ७ ॥ चतुरन्वयगम्भीरं सर्वं सम्पूजयेत्सुधीः । त्रैलोक्यमोहने चक्रे पञ्चाशद्वर्णविग्रहे ॥ ८ ॥ प्रकटास्तत्र सम्पूज्याः सिद्धयो दश सुन्दरि । सद्यः सन्तप्तहेमाभाः पाशाङ्कुशधराः प्रिये ॥ ९ ॥