पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। महाभाण्डाररत्नानि ससुवर्णानि वै निधीन् । प्रयच्छन्त्यः साधकेभ्यः पद्महस्तास्तु पूजयेत् ॥१०॥ अणिमा लघिमा सिद्धिर्महिमेशित्वरूपिणी । वशित्वसिद्धिःप्राकाम्या भुक्तिरिच्छाऽष्टमी भवेत् ॥११॥ प्राप्तिसिद्धिः सर्वकामाः सिद्धयः प्रकटा यजेत् । द्वारदक्षिणभागेषु तथा कोणेषु च क्रमात् ॥ १२ ॥ अध ऊर्ध्वे क्रमात्पूज्याः पश्चिमादि प्रदक्षिणम् । ब्राह्मी माहेश्वरी चैव तथेन्द्राणी तृतीयके ॥ १३ ॥ कौमारी वैष्णवी चैव षष्ठी वाराहिका भवेत् । चामुण्डा च तथा लक्ष्मीरपरेण च भागशः ॥ १४ ॥ पाशाङ्कुशधराः सर्वाः क्रमेण दधतीः स्मरेत् । विद्यां शूलं च वज्रं च शक्तिं चक्रं गदां ततः ॥१५॥ वैर्यन्त्रमालिकां पद्मं क्रमेण परमेश्वरि । सर्वाभरणसम्पन्नाः संस्मरेत्सिद्धिहेतवे ॥ १६ ॥ सर्वाद्या क्षोभिणी चैव द्राविण्याकर्षणी तथा । वश्योन्मादाङ्कुशाख्या च तथा मुद्रा तु खेचरी ॥१७॥ बीजयोनिस्त्रिखण्डा च पूर्वपश्चिमभागतः । पद्मरागप्रतीकाशाः सिन्दूरतिलकान्विताः ॥ १८ ॥ रक्तवस्त्रपरीधाना रक्तमालाविभूषिताः । स्वस्वमुद्राङ्किताः सर्वाः पाशाङ्कुशलसत्कराः ॥ १९ ॥