पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः पटलः। रत्नौघमूर्द्धमुकुटां शुद्धक्षौमाङ्गरागिणाम् । पद्माक्षीं पद्मनाभेन हृदि चिन्त्यां स्मरेद् बुधः ॥ १७॥ एवं ध्यात्वा यजेद्देवीं पद्मपुष्पधरां सदा । वरदाभयशोभाढ्यां चतुर्बाहुं सुलोचनाम् ॥ १८ ॥ आवाहनादिमुद्राश्च क्रमेणैव प्रदर्शयेत् । ऊर्धाञ्जलिमधःकुर्यादियमावाहनी भवेत् ॥ १९ ॥ इयं तु विपरीता स्यात्तदा वै स्थापनी भवेत् । उर्ध्वाङ्गुष्ठौ मुष्टियुगं तदयं सन्निधापनी ॥ २० ॥ अन्तरङ्गुष्ठमुष्टिभ्यां तदेयं सन्निरोधनी । तर्जनीभ्यां परिभ्राभ्य सकलीकरणं भवेत् ॥ २१ ॥ अञ्जलिञ्चार्ध्य॑वत्कृत्वा परमीकरणं भवेत् । परिवर्त्य करौ मन्त्री तर्जनी च कनिष्ठिके ॥ २२ ॥ मध्यमानामयुगले स्थापयेत्तु परस्परम् । अमृतीकरणं देवि मुद्नेयं धेनुरूपिणी ॥ २३ ॥ एताः सामान्यमुद्रास्तु दर्शयित्वा यजत्प्रिये । गन्धपुष्पादिभिः सम्यक्सर्वकामार्थसिद्धये ॥ १४ ॥ अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् । बलाका विमला चैव कमला वनमालिका ॥ २५॥ विभीषिका मालिका च शाङ्करी वसुमालिका । पुरस्ताद्दिक्रमेणैव प्रादक्षिण्येन पूजयेत् ॥ २६ ॥