पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ दक्षिणामूर्तिसंहिता। तथा चानङ्गमदना अनङ्गमदनातुरा । अनङ्गरेखा च तथा वेगिन्यनङ्गपूर्विका ॥ ३० ॥ अनङ्गाङ्कुशा चानङ्गमालिनी परमेश्वरि । महासौभाग्यदे चक्रे कचटवर्णविराजिते ॥ ३१ ॥ सम्प्रदायाख्ययोगिन्यः सर्वाभरणभूषिताः । इन्द्रगोपनिभाः सर्वाः सगर्वोन्मत्तयौवनाः ॥ ३२ ॥ पाशाङ्कुशौ दर्पणं च पानपात्रं सुधामयम् । बिभ्रत्यः सर्वसुभगाः पश्चिमादिविलोमतः ॥ ३३ ॥ शक्तीः प्रपूजयेद्देवि सम्प्रदायेन सिद्धये । सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ ३४ ॥ सर्वाकर्षणिका शक्तिः सर्वाल्हादकरी प्रिये । सर्वसंमोहिनी शक्तिः सर्वस्तम्भनकारिणी ॥ ३५ ॥ सर्वजृम्भणिका नाम शक्तिः सर्ववशङ्करी । सर्वानुरञ्जिनी शक्तिःसर्वोन्मादनकारिणी ॥ ३६ ॥ सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिरूपिणी । सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ३७ ॥ सर्वार्थसाधके चके नभवर्णविशोभिते । जपाकुसुमसङ्काशाःस्फुरन्मणिविभूषिताः ॥ ३८ ॥ महासौभाग्यगम्भीरा पीनवृत्तघनस्तनीः । रत्नपेटीविनिक्षिप्तान् साधकेप्सितभूषणान् ॥ ३९ ॥