पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ऊनषष्टितमः पटलः। नानारत्नमयान् दिव्यान् ददतीर्ह1षिताननाः । पाशाङ्कुशौ च दधतीः संस्मरेत्कुलयोगिनीः ॥ ४०॥ पश्चिमादिविलोमेन पूजयेत्सर्वसिद्धिदाः । सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ ४१ ॥ सर्वप्रियङ्करी चैव सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी सर्वदुःखविमोचनी ॥ ४२ ॥ सर्वमृत्युप्रशमनी सर्वविघ्नवि2नाशिनी । सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ४३ ॥ सर्वरक्षाकरे चक्रे मक्षवर्णविभूषिते । पश्चिमादिविलोमेन निगर्भा योगिनीर्यजेत् ॥ १४ ॥ उद्यद्गानुसहस्राभा मुक्तालङ्कारभूषिताः । पाशटङ्कायुधज्ञानमुद्रावरलसत्कराः ॥ ४५ ॥ देवीःप्रपूजयेदेता यथेप्सितफलप्रदाः । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥ ४६ ॥ सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ४७ ॥ सर्वानन्दमयी देवी सर्वरक्षास्वरुपिणी । (१)'हसिताननाः' इतिपाल (२) 'निवारिणी' इतिपा०