पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ दक्षिणामूर्तिसंहिता। तथैव1 हि महादेवी सर्वेप्सितफलप्रदा ॥ ४८ ॥ सर्वरोगहरे चक्रे वर्गाष्टकविजृम्भिते । पश्चिमादिविलोमेन रहस्या योगिनीर्यजेत् ॥ ४९ ॥ श्रीपीठं परितोऽधस्तादाडिमीकुसुमोपमाः । रक्तवस्त्रपरीधाना रक्तगन्धानुलेपनाः ॥ ५० ॥ रक्तपुष्पाक्षतैः सम्यक् पूजयेत्सर्वसिद्धिदाः । नानाभरणगम्भीरा पञ्चबाणधनुर्धराः ॥ ५१ ॥ पुस्तकं वरदानं च दधतीवर्गसंस्थिताः । वर्णाष्टकमहावर्णबिन्दुनादाङ्किता लिखेत् ॥ ५२ ॥ अवर्गान्ते रेफवक्ष्मावामकर्णेन्दुबिन्दुमत् । देवी वाग्देवता पूज्या वशिनी नाम सुन्दरि ॥ ५३ ॥ कवर्गान्ते कलहरीं परां कामेश्वरीं यजेत्2 । चवर्गान्ते नवक्ष्माढ्यं वामनेत्रं शशी समम् ॥ ५४ ॥ अनेन मोदिनी पूज्या टवर्गान्ते ततः परम् । वायुक्ष्मावामकर्णेन्दुनादवद्विमलां यजेत् ॥ ५५ ॥ तवर्गान्ते च कालाग्निवामाक्षीन्दुकलात्मिकाम् । अरुणां पूजयेद्देवि पवर्गान्ते ऽथ कथ्यते ॥ ५६ ॥ (१) 'सर्वेप्सितार्थफलदा दशमी परमेश्वरी । इतिपा० (२) लिखेत्' इतिपाठान्तरम् ।