पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ऊनषष्टितमः पटलः। १५९ व्योमजीवमहीनीरवायुमधींशभूषितम् । अनेन जयिनी पूज्या यवर्गान्ते ऽथ सं1लिखेत् ॥५७।। इमरेफकालपवनप्राण2जीवेन पूजयेत् । सर्वेश्वरी, शवर्गान्ते क्षमावह्नीशबिन्दुमत् ॥ ५८ ॥ अनेन कौलिनी् देवीं पूजयेदष्टमीं बुधः । अष्टकान्ते महेशानि एता वाग्देवता यजेत् ॥ ५९ ॥ सर्वसिद्धिप्रदे चके त्वकथैश्च महाक्षरैः । त्रिरेखासर्वशोभाढ्ये समस्तानुविजृम्भिते ॥ ६ ॥ परापररहस्याख्या योगिनीः पूजयेत्क्रमात् । पश्चिमादिकमेणैव युग्मयुग्मविभेदतः ॥ ६१॥ कामेशस्य च कामेश्याः बाणाः साधारणाः प्रिये । सतुर्यं तद्वितीयं च बिन्दुनादाङ्कितं क्रमात् ॥१२॥ कामेश्वरस्य कामेश्याश्वापयुग्मं यजेत् प्रिये । अनन्तो बिन्दुनादाढ्यो ह्रल्लेखापाशयुग्मकम् ॥६३॥ कामेश्वरस्य कामेश्याः क्रमेण परमेश्वरि । अङ्कुशस्तु समानः स्यादुभयोः पूजयेत्सुधीः ॥ ६॥ चतुर्दिक्षु विशोभाढ्या यौवनोन्मत्तविग्रहाः । रक्तविद्युल्लताकारा उद्दामकुसुमान्विताः ॥६५॥ (१) कश्यते' इतिपाठा० । (२) श्रवणाम्तेन इतिपाठा०।