पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। नवरत्नविशोभायाः स्वस्वायुधधराः क्रमात् । जम्भमोहवशस्तम्भपदमन्त्रान्विताः शुभाः ॥ ६६ ॥ अङ्गावरणबाह्ये तु आयुधाष्टकमर्चयेत् । कोण1त्रयेषु सम्पूज्यास्तिस्रः कूटत्रयान्विताः ॥ ६७ ॥ कामेश्वरी च वज्रेशी तृतीया भगमालिनी । कामेश्वरी शुक्लवर्णा शुक्लमाल्यानुलेपना ॥६॥ मुक्ताफलस्फुरद्भुषा नानाभरणभूषिता । पुस्तकं चाक्षसूत्रं च वरदं चाभयंक्रमात् ॥ ६९ ॥ दधती चाग्रतः पूज्या रुद्रशक्तिः प्रकीर्तिता । वज्रेश्वरी कुङ्कुमाभा स्फुरद्रत्नविभूषिता ॥ ७० ॥ वालार्कवसना नीलकर्णचुंबितलोचना । इक्षुकोदण्डपुष्पेषुवरदाभयशोभिता ॥ ७१ ॥ वज्रेश्वरीदक्षभागे विष्णुशक्तिर्महेश्वरी। उत्तरे भगमाला च सद्यः सन्तप्तहेमभा ॥ ७२ ॥ अनर्घ्यरत्नरचितभूषणा परमेश्वरी । पाशाङ्कुशज्ञानमुद्रावराभ2यकराम्बुजा ॥ ७३ ॥ ब्रह्मशक्तिर्महेशानि तापत्रयनिकृन्तनी । सर्वानन्दमये नादरूपे शब्दातिगोचरे ॥ ७४ ॥ परापररहस्याख्या योगिनीरतिपूर्विकाः । (१) कोश' इतिपाठान्तरम् । (२) 'वरदान' इतिपाठान्तरम् ।